________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
येन कारणेन गणी आचार्यः सबालवृद्धस्य गच्छस्याऽऽधारस्ततस्तस्य भवत्यतिशेषप्रभुत्वं अतिशायिप्रभुत्वम्, तच्चभिर्वक्ष्यमाणैारैरवगन्तव्यम् ॥ २५४७ ॥
व्यवहारसूत्रम् षष्ठ उद्देशकः
१०८५ (A)
तान्येवाहतित्थयर१पवयणे रनिज्जरा य सावेक्ख भत्त अविछेदो । एएहिं कारणेहिं, अतिसेसा होति आयरिए ॥ २५४८ ॥ दारगाहा।
आचार्यस्तीर्थकरस्तीर्थकरानुकारी तथा सूत्रतोऽर्थतश्चाधीती प्रवचने तथा तस्य वैयावृत्त्यकरणे महती निर्जरा भवति तथा शिष्याः प्रातीच्छिकाश्चात्मानुग्रहबुद्ध्या सूरेः वैयावृत्त्यं कुर्वन्तः सापेक्षा भवन्ति, सापेक्षाणां च भूयान् ज्ञानादिलाभो महती च निर्जरा, इतरे अकुर्वन्तो ये निरपेक्षास्तेषां महान् संसारः। तथा भक्तावाचार्यस्य क्रियमाणायां सकलस्यापि गच्छस्यानुग्रहकरणात् तीर्थस्याऽव्यवच्छेदः कृतो भवति । एतैः कारणैः आचार्यस्य सूत्रोक्ता अतिशेषा भवन्त्यन्ये वा वक्ष्यमाणा इति द्वारगाथासक्षेपार्थः ।। २५४८॥
साम्प्रतमेषां व्याख्या, तत्र प्रथमं तीर्थकरकल्पद्वारं व्याख्यानयति
गाथा
४२५४४-२५५१
आचार्यस्य अतिशायि
प्रभुत्वम् १०८५ (A)
For Private And Personal Use Only