________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ उद्देशकः
१०८४ (B)
कारणत्रयवशाद्विशिष्टेन प्रयत्नेन रक्ष्येते शुश्रूष्येते च, तथा शिष्यैः आचार्यः प्रयत्नेन रक्षणीयः शुश्रूषणीयश्च ॥ २५४५॥
अथैवमाचार्ये रक्षिते शुश्रूषिते च को गुण इत्यत आहपूयंति य रक्खंति य, सीसा सव्वे गणिं सया पयया। इहपरलोए य गुणा, हवंति तप्पूयणे जम्हा ॥ २५४६॥
गणिनमाचार्य शिष्याः सर्वे सदा प्रयताः प्रयत्नपराः पूजयन्ति शुश्रूषन्ते [रक्षन्ति] | च, यस्मात् तत्पूजने आचार्यपूजने इहलोके परलोके च गुणा भवन्ति । इहलोके
सूत्रार्थतदुभयानि, परलोके सूत्रार्थाभ्यामधीताभ्यां ज्ञानादिमोक्षमार्गप्रसाधनम् । अथवा पारलौकिका गुणा "आयरियवेयावच्चं करेमाणे महानिज्जरे महापज्जवसाणे भवति" इत्येवमादयः । गतो द्वितीयोऽतिशयः ॥ २५४६ ॥ सम्प्रति तृतीयं "इच्छा पहू वेयावडियं करेजा" इत्येवंरूपमतिशयमभिधित्सुराह
जेणाहारो उ गणी, सबालवुड्डस्स होइ गच्छस्स । तो अतिसेसपभुत्तं, इमेहि दारेहि तस्स भवे ॥ २५४७॥
गाथा २५४४-२५५१
आचार्यस्य अतिशायिप्रभुत्वम्
१०८४ (B)
For Private And Personal Use Only