________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशक:
܀܀܀܀܀܀
www. kobatirth.org
सोऊण पाडिहेरं, राया घेत्तूण सिरिहरे छुहति । मंगलभत्तीए ततो, पूएति परेण जत्तेण ॥ २५४४॥
इदमनन्तरोदितं प्रातिहार्यं राजा तौसलिकः श्रुत्वा ते प्रतिमे [ गृहीत्वा ] स्वयमेवात्मीये श्रीगृहके भाण्डागारे क्षिपति मुञ्चति ततो मङ्गलबुद्ध्या भक्त्या च परेण यत्नेन पूजयति यस्मिंश्च दिवसे ते प्रतिमे श्रीगृहकमानीते ततः प्रभृति राज्ञः कोशादिषु वृद्धिरुपजायत । आह१०८४ (A) श्रीगृहसदृश आचार्य इत्युक्तं तत एवं दृष्टान्तभावना कर्त्तव्या यथा- राजा श्रीगृहं प्रयत्नेन रक्षयति एवमाचार्योऽपि रक्षणीयस्ततः कथमत्र मणिमयप्रतिमाभ्यां दृष्टान्तभावना कृता ? ॥ २५४४ ॥ उच्यते
मंगलभत्ती अहिया, उप्पज्जइ तारिसम्मि दव्वम्मि । रयणग्गहणं तेणं, रयणब्भूतो तहायरितो ॥२५४५॥
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगृहे द्रविणं रक्षणीयं, मणिमयप्रतिमयोः पुनः द्रविणमप्यतिप्रभूतमस्ति मङ्गलबुद्धिश्च तत्रापि परमा तीर्थकरभक्तिश्चेति प्रयत्नरक्षणे त्रीणि कारणानि । तथा चाह- मङ्गलं मङ्गलबुद्ध्या भक्तिश्चाधिका तादृशे द्रव्ये समुत्पद्यते ततो रत्नग्रहणम् । यथा ते रत्नप्रतिमे
For Private And Personal Use Only
गाथा
| २५४४-२५५१ * आचार्यस्य अतिशायिप्रभुत्वम्
१०८४ (A)