________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
.
व्यवहारसूत्रम् षष्ठ उद्देशकः
१०८३ (B)|
प्रतिमाया उत्पत्तिर्वक्तव्या, सा चैवम्-एकस्य वणिजः समुद्रं प्रवहणेनावगाढस्य उत्पात उपस्थितः । ततः स वणिक भीतः सन् औपयाचितकं करोति यथा- यद्येतदौत्पातिकमपशाम्यति अविघ्नोत्तरामि च ततोऽनयोर्द्वयोः मणिरत्नयोढे मणिमय्यौ जिनप्रतिमे कारयिष्यामि। एवमौपयाचितके कृते देवतानुभावेनौत्पातिकमुपशान्तम्, अविनंसमुद्रोत्तरणमभूत्। स चोत्तीर्णः सन् लोभेन एकस्मिन् मणिरत्ने एकां जिनप्रतिमां कारयति । ततो देवतया द्वितीयेऽपि मणिरत्ने द्वितीया जिनप्रतिमा कारिता, तथा चाह-देवताछन्देन, ततो जाता द्वितीयेऽपि मणिरत्नप्रतिमा ॥२५४१ ॥२५४२॥ तो भत्तीए वणितो, सुस्सूति ता परेण जत्तेणं ।
गाथा
४२५३७-२५४३ ता दीवएण पडिमा, दीसंतिहरा उ रयणाइ ॥२५४३॥
मणिप्रतिमोततः प्रतिमाद्वयकारापणानन्तरं ते प्रतिमे च वणिक् भक्त्या परेण यत्नेन शुश्रूषत॥
दाहरणम् तयोश्च प्रतिमयोरिदं प्रातिहार्यम् ते प्रतिमे यावद्दीपकपार्श्वे ध्रियते तावद्दीपकेन हेतुना प्रतिमे ||१०८३ (B) दृश्येत॥ इतरथा दीपकाभावे सप्रकाशेऽपि प्रकाशे मणिरत्ने दृश्यते ॥२५४३ ।।
For Private And Personal Use Only