________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
४
व्यवहारसूत्रम्
षष्ठ उद्देशकः १०८६ (A)
यथा उत्पन्ने ज्ञाने जिनेन्द्राश्चतुस्त्रिंशद्बुद्धातिशयाः सर्वज्ञातिशया देहसौगन्ध्यादयो येषां ते तथा [ते]हि [यथा]भिक्षां न हिण्डन्ते । एवं तीर्थकरदृष्टान्तेन गणी आचार्योऽष्टगुणोपेतोऽष्टविधगणिसम्पदुपेतः शास्ता इव तीर्थकर इव ऋद्धिमान् न हिण्डत ॥ २५५१॥
गुरुहिंडणम्मि गुरुगा, वसभे लहुयाऽनिवारयंतस्स । गीयागीते गुरु-लहु, आणादीया बहू दोसा ॥ २५५२॥
आचार्य भिक्षामटामीति व्यवसितं यदि वृषभो न निवारयति तदा तस्याऽनिवारयतः प्रायश्चित्तं चत्वारो लघुकाः । अथ वृषभेण निवारितोऽपि न तिष्ठति तर्हि वृषभ: शुद्धः,आचार्यस्य प्रायश्चित्तं चत्वारो गुरुकाः। तथा गीतार्थो भिक्षुश्चेन्न निवारयति तदा तस्य मासगुरु। अगीतार्थस्य भिक्षोरनिवारयतो मासलघु । आचार्यस्य गीतार्थाऽगीतार्थाभ्यां वारितस्यापि गमने प्रत्येकं चतुर्गुरु आज्ञादयश्च दोषाः, इमे च वक्ष्यमाणा बहवो दोषाः ॥ २५५२ ।।
गाथा २५५२-२५५७
आचार्यस्य भिक्षाटने दोषाः
तानेवाह
१०८६ (A)
१ "बुद्ध्यति पु.प्रे.। २. ते तथा भिक्षां न-आहोर ६४। ते यथा भिक्षां न -मु. ॥
For Private And Personal Use Only