________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८२८ (B)
वर्षास वर्षाकाले ये अमनोज्ञाः परस्परोपसम्पद्विकला असमाप्ताः असमाप्तकल्पाः, विष्वक् पृथक् स्थिता भवेयुस्तेषां न भवति क्षेत्रमाभाव्यम्, असमाप्तकल्पत्वात्। अथ पुनः सुख-दुःखादिनिमित्तं समनोज्ञतां परस्परोपसम्पदं कुर्वन्ति, ततो भवति, तेषामाभाव्यं क्षेत्रम् परस्परोपसम्पदा समाप्तकल्पीभूतत्वात्। अथ तेषां कः प्रभुः? उच्यते, यो रानिकः रत्नाधिको यस्य पर्यायाधिकतया वन्दनादीनि क्रियन्ते स तेषां प्रभुः। लाभ: पुनर्यस्तत्र भवति स सर्वेषां सामान्यः साधारणः, सर्वेषामप्याचार्यत्वादुपाध्यायत्वाद्वा ॥ १८०१-०२ ॥
अहव जइ वीसु वीसुं, ठिया उ असमत्तकप्पिया हुज्जा । अण्णो समत्तकप्पी, एजाही तस्स तं खेत्तं ॥ १८०३ ॥
अथवा असमाप्तकल्पिका यदि विष्वग् विष्वक् स्थिता भवेयुः, अन्यः | समाप्तकल्पी समाप्तकल्पोपेतः पश्चादागच्छेत् तस्य तदाभवति क्षेत्रम्, नेतरेषां पूर्वस्थितानामपि, असमाप्तकल्पत्वात् ॥ १८०३ ॥
गाथा १८००-१८०७
वर्षाकाले 'आभवनव्यवहारः
८२८ (B)
For Private and Personal Use Only