________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
܀܀
सूत्रम्
चतुर्थ
उद्देशकः
८२७ (A)
܀܀܀܀܀
www.kobatirth.org
स्थिरीभवतीत्यर्थः। चैत्यानि तु तत्र न विद्यन्ते ततः किं तत्र गत्वा त्वया कार्यम् ? इति १
॥ १३७९६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
साधुद्वारमाह
न संति साहू तहियं विवित्ता, ओसण्णकिण्णो खलु सो कुदेसो । संसग्गिहज्जंमि इमम्मि लोए, सा भावणा तुज्झ वि मा हवेज्जा ॥ १७९७ ॥ दारं २ |
शय्याद्वारमाह
न सन्ति तत्र साधवः विविक्ता: एकान्तसंविग्नाः, किन्तु अवसन्नकीर्ण अवसन्नव्याप्तः खलु स कुदेशः । अयं च लोकः संसर्गिहार्यः - संसर्ग्या ह्रियते संसर्ग्यनुयायी भवति, तथास्वाभाव्यात्, ततः संसर्गिहार्येऽस्मिन् लोके वर्तमानस्य तवापि सा अवसन्नभावना मा भूदिति तत्र न गन्तव्यम् २ ॥ १७९७ ॥
For Private and Personal Use Only
* * *
गाथा
१७९८ - १७९९ विपरिणाम
स्थानानि
मुमुक्षोः
८२७ (A)