________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ
उद्देशकः
८२३ (B)
मण्डलिकाप्रविष्टं पुष्पावकीर्णं वा कथयति, तदा तस्मिन् प्रायश्चित्तं मासो लघुकः, तं च | पृच्छन्तं न लभन्ते। एष सङ्क्षपार्थः । व्यासार्थोऽग्रे कथयिष्यते ॥ १७८६ ॥ 'अक्षेत्रे उपाश्रयस्य मार्गणा कर्त्तव्या' इत्युक्तं तत्र तावदक्षेत्रमाहपहाणाःणुजाण अद्धाणसीसए कुल गणे चउक्के य। ग नदि-वाणमंतरमहे य उज्जाणमादीसु ॥ १७८७ ॥ इंदक्कील मणोग्गाहो जत्थ व राया व पंच इमे । अमच्च१ पुरोहियर सेट्ठी३, सेणावइ४ सत्थवाहो उ५ ॥ १७८८ ॥
स्नानम् अर्हत्प्रतिमानां तन्निमित्तमेकत्र मिलितानाम्, अनुयानं रथयात्रा, तन्निमित्तं | मिलितानाम्, अथवा अध्वशीर्षकं यतः परं समुदायेन सार्थेन सह गन्तव्यं सम्यग्मार्गावहनात् तत्र मिलितानाम्, कुलत्ति कुलसमवायमिलितानाम्, गणत्ति गणसमवायमिलितानाम् चतुष्कं सङ्घस्तत्समवायमिलितानां, गामाइ इत्यादि, ग्राममहे वा, आदिशब्दान्नगरादिमहे वा, वानमन्तरमहे वा, उद्यानमहे वा आदिशब्दात्तडागादिमहे वा, इन्द्रकीलकमहे वा, यत्र च
गाथा १७८३-१७८८ असमाप्तकल्पाना अनाभाव्यतम्
८२३ (B)
For Private and Personal Use Only