________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ८२४ (A)
सकलजनमनोग्राहो राजा, यत्र वा इमे अमात्य-पुरोहित-श्रेष्ठि-सेनापति-सार्थवाहाः पञ्च गता वर्तन्ते, तत्र कथमपि गताः समकं स्थितास्तर्हि साधारणा वसतिः । अथ विषमं स्थितास्तर्हि ये पूर्वं स्थितास्तेषां वसतिराभवति, नेतरेषां पश्चादागतानाम्, तस्यां च वसतौ यः शिष्यः शिष्यतया उपतिष्ठति तं वसतिस्वामिनो लभन्ते, नेतरे ॥१७८७-८८ ॥
"पुच्छमाणे दूरावलिय मासो" [गा.१७८६] इत्यस्य व्याख्यानार्थमाहपुप्फावकिण्ण१ मंडलि२ आवलिय३ उवस्सया भवे तिविहा । जो अब्भासे तस्स उ, दूर कहंतो न लभे मासो ॥ १७८९ ॥
क्वचिद् ग्रामे नगरे वा साधवः पृथग् उपाश्रये स्थिताः, ते चोपाश्रया: त्रिविधा भवेयुःपुष्पावकीर्णकाः, मण्डलिकाबद्धा आवलिकास्थिता वा। स्थापना
गाथा १७८९-१७९२
आभवनव्यवहारः
८२४ (A)
१. दूरे-ला.॥
For Private and Personal Use Only