________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः
८२२ (B)
एगागिस्स उ दोसा, असमत्ताणं च तेण थेरेहिं । एस ठविया उ मेरा, इति वि हु मा होज एगागी ॥ १७८४॥
यत एकाकिनः सतोऽसमाप्तानां च असमाप्तकल्पानां च दोषा भूयांसः, तेन कारणेन |* स्थविरैरेषा मर्यादा स्थापिता। इत्यपि खलु कारणात् क्षेत्रानाभवनलक्षणाद् एकाकिनोऽसमाप्तकल्पा वा मा भूवन्निति ॥ १७८४ ।।
सम्प्रति 'साहरणपत्तेगे' [गा. १७७८] इत्यादि व्याख्यानयतिदोमादि ठिया साहारणम्मि, सुत्तऽत्थकारणा एक्के ।
गाथा जति तं उवसंपज्जे, पुव्वठिया वा वि संकंतं ॥ १७८५ ॥
१७८३-१७८८ व्यादयः द्विप्रभृतयो गच्छाः समाप्तकल्पाः समकमेकस्मिन् क्षेत्रे स्थितास्तेषां तत् असमाप्त
कल्पाना क्षेत्रमाभाव्यतया साधारणम्। तस्मिन् साधारणे क्षेत्रे स्थिता: सन्तो यदि तमेकं गच्छमन्ये
अनाभाव्यतम् सूत्रार्थकारणादुपसम्पद्यन्ते, अथवा ये पूर्वं समाप्तकल्पतया स्थितास्तेषामाभवति तत्क्षेत्रम, न पश्चादागतानां समाप्तकल्पानामपि। परं ते पूर्वस्थिता अपि यदि पश्चादागतं गच्छं
| ८२२ (B) सूत्रार्थकारणादुपसम्पद्यन्ते तर्हि यस्य समीपमुपसम्पद्यन्ते तस्य तत्क्षेत्रं सङ्क्रान्तम्, तस्य
For Private and Personal Use Only