SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८२२ (A) www.kobatirth.org प्रायो दर्शनम्” इति न्यायादत्र हेतौ प्रथमा, ततोऽयमर्थः - परस्परमनिश्रितत्वाद् बहुका अपि सन्तो हुः निश्चितं न लभन्ते क्षेत्रम्, समाप्तकल्पानामेव क्षेत्रस्याऽऽभवनात्, तथा पूर्वाचार्यकृतस्थितेः ॥ १७८२ ॥ जइ पुण समत्तकप्पो, दुहा ठितो तत्थ होज्ज चउरन्ने । चउरो वि अप्पभू ते, लभंते दो ते इतरनिस्सा ॥ १७८३ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि पुनः समाप्तकल्पः पञ्चजनात्मको वसतेः सङ्कटतादोषेणैकस्मिन् क्षेत्रे द्विधा स्थितः एकस्यां वसतौ द्वौ जनावपरस्यां त्रयः, तथा तस्मिन् क्षेत्रेऽन्यस्यां वसतावन्ये चत्वारो जनाः स्थिता भवेयुः तथापि ते चत्वारोऽपि तस्य क्षेत्रस्य अप्रभवः, न तेषां तत् क्षेत्रमाभाव्यं भवति, यौ पुनद्वौ तौ तत्क्षेत्रं लभेते । कुतः ? इत्याह- इतरनिश्रौ, अत्रापि हेतौ प्रथमा, यतस्तावितरत्रयनिश्रौ, अतः समाप्तकल्पत्वाल्लभते ॥ १७८३॥ अथ कस्मादसमाप्तकल्पानामेकाकिनां चाऽऽभाव्यं क्षेत्रं न भवति ? तत आह For Private and Personal Use Only गाथा | १७८३-१७८८ असमाप्तकल्पाना ● अनाभाव्यतम् ८२२ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy