________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः ८२१ (B)
पडिंभग्गेसु मएसु व, असिवादीकारणेसु फिडिया वा । एएण तु एगागी, असमत्ता वा भवे थेरा ॥ १७८१ ॥
शेषेषु साधुषु व्रतात्प्रतिभग्नेषु मृतेषु वा, अथवा अशिवादिभिः कारणैः स्फिटिता: परस्परं वित्रुटिताः, एतेन कारणजातेन स्थविरा एकाकिनोऽसमाप्ता वा भवेयुः ॥१७८१ ॥
साम्प्रतं 'एगदुगपिंडियाणं पि'[गा.१७७८] इत्यस्य व्याख्यानार्थमाहएग-दुगपिंडिया वि हु, लभंति अण्णोण्णनिस्सिया खेत्तं । असमत्ता बहुया वि हु, न लभंति अणिस्सिया खेत्तं ॥ १७८२ ॥ एककाः पिण्डिता एकपिण्डिताः, द्विकेन- वर्गद्वयेन पिण्डिता [द्विकपिण्डिताः] | अपिशब्दात् त्रिकपिण्डिताश्चतुष्कपिण्डिताश्च । अमीषां भावना प्रागेवोक्ता, हु निश्चितम्, अन्योन्यनिश्रिताः परस्परमुपसम्पन्ना लभन्ते क्षेत्रम्, ये पुनः असमाप्ताः परस्परोपसम्पद्ग्रहणाभावतोऽसमाप्तकल्पास्तिष्ठन्ति ते परस्परमनिश्रिताः, “निमित्त-कारण-हेतुषु सर्वासां विभक्तीनां
गाथा १७७८-१७८२
क्षेत्रस्य आभवनव्यवहारः
८२१ (B)
१. परिभग्नेषु- मो.॥
For Private and Personal Use Only