________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति कुत? इत्याह-गमनागमनं यतः परस्परमस्ति, परस्परोपसम्पन्नत्वाद्, अत: समाप्तकल्पतया भवत्याभाव्यमिति ॥१७७९ ॥
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८२१ (A)
सम्प्रति यैः कारणैरुपसम्पद्यते तान्याहखेत्तनिमित्तं सुह-दुक्खतो, व सुत्तत्थकारणे वा वि । असमत्ते उवसंपय, समत्ते सुहदुक्खयं मोत्तुं ॥ १७८० ॥
असमाप्तस्य असमाप्तकल्पस्योपसम्पद्भवति क्षेत्रनिमित्तं सुखदुःखहेतोर्वा सूत्रार्थकारणाद्वा। किमुक्तं भवति? अन्यत् तादृशं क्षेत्रं न विद्यते, यदि वा असमाप्तकल्पतया विहरतां दुःखं, समाप्तकल्पतया विहरतां सुखमिति सुख-दुःखहेतोः, अथवा सूत्रार्थकारणाद्वा | असमाप्तकल्पा अन्यं गच्छमुपसम्पद्यन्ते इति। समाप्ते समाप्तकल्पस्य पुनरुपसम्पदि, सुखदुःखतां मुक्त्वा शेषाणि कारणानि द्रष्टव्यानि, समाप्तकल्पा अन्यत् क्षेत्रं तादृशं नास्तीति क्षेत्रनिमित्तं सूत्रनिमित्तमर्थनिमित्तं तदुभयनिमित्तं वाऽन्यद् गच्छान्तरमुपसम्पद्यन्ते, न सुखदु:खहेतोः, समाप्तकल्पतया तेषां विहरणे दुःखाभावादिति भावः ॥ १७८० ॥
अथ ते कथमेकाकिनोऽसमाप्ता वा जाता:? इत्यत आह
गाथा |१७७८-१७८२
क्षेत्रस्य आभवनव्यवहारः
८२१ (A)
For Private and Personal Use Only