________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः
८२० (B)
स्यातां तदा तत्क्षेत्रमाभवति द्वयोरपि तयोः साधारणम् । तच्च साधारणं क्षेत्रं तेषां समाप्तकल्पतया प्रत्येकं प्रत्येकं स्थितानां मध्ये ये सूत्राऽर्थनिमित्तं यानुपसम्पद्यन्ते तत उत्तीर्य तेषामुपसम्पद्विषयाणामाभाव्यतया सङ्क्रामति। तथा चाऽऽह- साधारणं क्षेत्रं प्रत्येकं व्यवस्थितमपि प्रतीच्छके प्रतीच्छकादुत्तीर्य येषां समीपमुपसम्पद्यते तेषां सङ्क्रामति, ते हि प्रतीच्छकास्तन्निश्रामुपपन्नास्ततस्तेषां क्षेत्रमितरेषां सङ्क्रामति । अथ प्रतीच्छका नोपसम्पद्यन्ते, * केवलं पुच्छत्ति पृच्छामात्रं सूत्रार्थविषयं क्रियते तदा 'पुच्छाहि तिहिं' [गा.१७८६] इत्यादिना मार्गणा कर्तव्या ॥१७७८ ॥
अत्रैव विशेषमाहअप्पबितियऽप्पतईयट्ठियाण खेत्तेसु दोसु दोण्हं तु । उडुबद्धे होइ खेत्तं, गमणागमणं जतो अत्थि ॥ १७७९ ॥
एकस्मिन् क्षेत्रे एक आचार्य उपाध्यायो वा स्थितः, अपरस्मिन् क्षेत्रेऽपर आचार्य | उपाध्यायो गणावच्छेदको वाऽऽत्मतृतीयः स्थितः, केवलं परस्परमुपसम्पदा, ततस्तयोर्द्वयोः अपि द्वयोः क्षेत्रयोरात्मद्वितीयात्मतृतीयस्थितयोः ऋतुबद्धे काले तदुभयमपि क्षेत्रमाभाव्यं
गाथा १७७८-१७८२
क्षेत्रस्य आभवनव्यवहारः
८२० (B)
For Private and Personal Use Only