________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८१९ (B
पाध्यायानामात्मतृतीयानां बहूनां गणावच्छेदकानामात्मचतुर्थानां च वर्षावासं वस्तुं कल्पते अन्योऽन्यनिश्रयेति। एष सूत्रसक्षेपार्थः। अत्र बहुत्वव्याख्यानार्थमाह
दुप्पभिइ इत्यादि, द्विप्रभृति त्रिप्रभृति वाऽत्र बहुत्वमवगन्तव्यम् । किमर्थमिदं सूत्रम्? इति चेत् उच्यते- इह मार्गणा क्षेत्रे कर्तव्येत्येतदर्थम्। एकस्मिन् क्षेत्रेऽवस्थितानां कस्य क्षेत्रमाभवति? कस्य न? इति चिन्तायां ये परस्परनिश्रया समाप्तकल्पा वर्तन्ते तेषामाभवति, अन्येषां नेत्येवमर्थमित्यर्थः ॥१७७६ ॥ एतदेवाऽऽक्षेपपुरस्सरमाह
सूत्र ९-१० हेट्ठा दोण्ह विहारो, भणितो किं पुण इयाणि बहुयाणं? ।
गाथा एगक्खित्तठियाणं, तु मग्गणा खेत्त-अक्खेत्ते ॥ १७७७ ॥
१७७३-१७७७
४ जघन्यविहारऋतुबद्धे काले द्वयोर्विहारोऽधस्तात्पूर्वं द्वितीयसूत्रेण उक्तः, उपलक्षणमेतत्, वर्षासु | षष्ठसूत्रेण त्रयाणाम् [भणित:], ततस्तेनैवेदं गतार्थमिति किं किमर्थं पुनरिदानी बहुकानामाचार्यादीनां सूत्रम् ?। सूरिराह- एकक्षेत्रस्थितानां मार्गणा कर्त्तव्या कस्य क्षेत्रमाभवति?
__ संख्या
८१९ (B)
For Private and Personal Use Only