________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशक: ८१८ (A)
तथा चाऽऽहजइ संघाडो तिण्ह वि, पज्जत्ताऽऽणेइ तो गुरु ण नीति । अह नवि आणे ताहे, वसहिआलोग हिंडणया ॥ १७७३ ॥
यदि सङ्घाट: साधुयुग्मं त्रयाणामपि आत्मद्विकस्य गुरोश्चेत्यर्थः पर्याप्तं परिपूर्णमानयति ततो गुरुर्भिक्षार्थं न न्येति निर्गच्छति। अथ नैव त्रयाणां पर्याप्तमानयति अलाभाद् अशक्तेर्वा, तदा वसतेरालोको यथा भवत्येवमाचार्यस्य प्रत्यासन्नेषु गृहेषु हिण्डनम् ॥ १७७३ ॥ कियत्पुनस्तत्र गृह्णाति? इति चेत्, अत आह
सूत्र ९-१० आसण्णेसुं गेण्हइ, जत्तियमेत्तेण होइ पज्जत्तं ।
गाथा
१७७३-१७७७ जावइएण य ऊणं, इयराणीयं तु तं गेण्हे ॥ १७७४ ॥
जघन्यविहार
संख्या तस्मिन्नेव पाटके प्रत्यासन्नेषु गृहेषु गृह्णाति तावन्मानं यावन्मात्रेण पर्याप्तं परिपूर्ण || भवति। अथ तावन्न लभ्यते तर्हि यावता ऊनं तत् तावद् इतराभ्यामानीतं गृह्णाति। न च ८१८ (A) ते त्रयोऽपि परिपूर्ण भुञ्जते किन्त्वल्पम् ॥ १७७४॥
For Private and Personal Use Only