________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८१७ (B)
अव्यक्ते निद्राप्रमते कथाप्रमत्ते वाऽकल्पिके वेदितव्याः ॥१७७१ ॥
तम्हा पालेइ गुरू, पुव्वं काउं सरीरचिंतं तु ।। इहरा आउवहीणं, विराहण धरंतमधरेते ॥ १७७२ ॥
यतस्तरुणे बालकादौ वाऽकल्पिके वसतिपाले स्थितेऽनन्तरोक्ता दोषाः; आचार्ये तु न . भवन्ति, तस्माद्गुरुः आचार्यो वसतिं पालयति। कथम्? इति चेत्, अत आह-पूर्वं * शरीरचिन्तां कृत्वा संज्ञाभूमिं गत्वा इत्यर्थः। अथ शरीरचिन्तां न करोति ततः प्रायश्चित्तं | मासलघु। इमे च दोषाः- इहरा उ इत्यादि, इतरथा शरीरचिन्ताया अकरणे यदि संज्ञां
गाथा धारयति तत आत्मविराधना, मरणस्य ग्लानत्वस्य चावश्यं तन्निरोधे भावात् । अथ न
१७७२ धारयति किन्तु मात्रके व्युत्सृजति ततः श्राद्धादीनामागतानां गन्धागमनतः उड्डाहः। अथ योग्याऽयोग्यबहिर्याति तत्र उपधेर्विराधना तस्करापहाररूपा, ये चैकाकिनो दोषास्ते च भवन्ति । एष
| वसतिपाला: संस्तरणे विधिरुक्तः । असंस्तरणे पुनराचार्यो वसतिं प्रलोकमानस्तस्मिन्नेव पाटके प्रत्यासन्नेषु ८१७ (B) गृहेषु भिक्षार्थं हिण्डते ॥ १७७२॥
For Private and Personal Use Only