SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री . व्यवहारसूत्रम् चतुर्थ उद्देशक: ८१७ (A) बहिर्निष्काशयितुमारभते ततोऽपहरन्ति ८। भंगे मालवतेणत्ति मालवा:- म्लेच्छविशेषाः शरीरापहारिणः, स्तेनाः-उपकरणापहारिणः, तैर्भङ्गे स बालको भयतो जनेन सार्धं नश्यति, न च सारमुपधिं गृह्णाति, यदि वा उपधिप्रतिबद्धः सन् - वसतावेव तिष्ठेत ततः स मालवैरपहियते, स्तेनैर्वा उपकरणमिति। अथवा केचित् कैतवेन ब्रूयुः- 'मालवाः स्तेना वा क्षुल्लक! समापतिताः, तस्मात् पलायस्व जनेन सार्धमिति;' एवमुक्ते स बालकस्तत्त्वमजानानो नश्यति, इतरे तूपकरणमपहरन्ति ९ । नातित्ति ज्ञातयः स्वजनास्ते समागताः तैरेकाकी दृष्टस्ततो नीयते, अन्ये चोपधिमपहरन्ति। अथवाऽन्येन केनचित् ते आगच्छन्तो दृष्टास्तेन कथितम्'क्षुल्लक! तव ज्ञातयः समागच्छन्ति,' ततः स पलायते, इतरश्चोपकरणमपहरति । अथवा कोऽपि धूर्तः कैतवेन ब्रूयात्- 'क्षुल्लक! व ते निजका:?,' क्षुल्लक: प्राह- 'अमुके ग्रामे नगरे वाः' सोऽन्यस्मै कथयति, ततः स तेषां सज्ञातीनां नाम-चिह्नान्यवगम्य तस्य क्षुल्लकस्य समीपमागत्य भणति- 'अमुकस्य त्वं निजक:?' क्षुल्लकः प्राह- 'कथं त्वं जानासि?' ततः स तन्मातापित्रादीनां नाम-वर्णादिकं कथयति, ततः क्षुल्लकस्य प्रत्यय उपजायते, ततो वक्ति- सत्यमहं तेषां निजकः; ततो धूर्तो ब्रूते- 'ते आगतास्तव निमित्तम्, मया अमुकप्रदेशे दृष्टा' इति, ततः स पलायते, इतरे हरन्त्युपकरणम् १० । एवं यथा बालेऽकल्पिके दोषास्तथा गाथा १७७२ योग्याऽयोग्यवसतिपाला: ८१७ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy