SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८१६ (B) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कैतवेन; तेषु च समागतेषु स बालकः स्वयं वा क्रीडति, तान् वा क्रीडतः पश्यति, ततः क्रीडया व्याक्षिप्तस्य सतोऽपहरन्ति ३ । पमज्जणाऽऽवरिसणा यत्ति य एव बलावुक्तो गमः स एव प्रमार्जने आवर्षणे च वेदितव्यः ४-५ । पाहुडिया इति प्राभृतिका भिक्षा अर्चनिका च, तत्र केचित् स्वभावेन कैतवेन वा वंदन्ति- 'क्षुल्लक ! गृहाण भिक्षाम्, अथवा बहिर्निर्याहि यावद्वयमर्चनिकां कुर्मः;' ततो यावद्भिक्षार्थं याति बहिर्वा निर्गच्छति तावदपहरन्ति ६ । खंधारत्ति अपरे कैतवेन स्वभावेन वा वदेयुः - 'यथा एष राज्ञा सह स्कन्धावारः समागच्छति;' तत्र यदि स्वभावेन ततो नश्यति, स नश्यन् बालस्तैरपह्रियते; कैतवेन समागता ब्रुवते - 'क्षुल्लक ! पलायस्व, स्कन्धावारः समागच्छति' ततः स नश्यति, इतरे अपहरन्ति ७ । अगणित्ति प्रदीपनकं लग्नं परतः स्वभावेन श्रुत्वा स्वयं वाऽवलोक्य स बालक उपधिलोभाद् भयाद्वा स्वयं वसतेर्बहिर्न निर्गच्छति नापि किञ्चिदुपकरणं निष्काशयति ततस्तस्य बालकस्योपकरणस्य च विनाशः, यदि वा उपकरणनिष्काशनाय मध्ये प्रविष्टो गुप्तः सन् स बालको दह्येत । कैतवेन वा केचिद् ब्रूयुः - 'मन्दभाग्य ! नश्य, प्रदीपनकं लग्नं वर्तते । ' तैरेवमुक्ते स उपकरणं १. वदेयुः क्षु० वा. पु. ॥ For Private and Personal Use Only गाथा १७७२ योग्यायोग्यवसतिपालाः ८१६ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy