SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८१६ (A) X.. .X. समागच्छेयुः कैतवेन वा, तत्र ये कैतवेन ते प्रथमत एवोपकरणहरणबुद्ध्या, ये तु स्वभावतस्ते नोपकरणहरणनिमित्तमागच्छन्ति किन्त्वागतानां बलिं कुर्वतां बालमेकाकिनं दृष्ट्वा हरणबुद्धिरुपजायते ततोऽपहरन्ति । अथवा बलौ विक्षिप्यमाणे उपकरणं कूरेण खरण्ट्यते ततो बालो जल्पति-बहिरुपकरणं निष्काशयामि; एवमुक्त्वा स किमप्युपकरणमादाय बहिर्निर्गतस्तावदभ्यन्तरे ते उपधिमपहरन्ति । ये तु कैतवेन समागच्छन्ति ते उपधिमपहर्तुकामा ब्रुवते- 'क्षुल्लक ! बलिरेष समागच्छति ततस्त्वं बहिर्निर्गच्छ ;' एवं तं बालं बहिर्निष्काश्योपधिमपहरन्ति। अथवा युरिदम् 'वयं बलिं करिष्यामस्ततस्त्वं बहिस्तिष्ठ अन्यथा कूरेण खरण्टना भविष्यति;' एवमुक्ते बहिर्निर्गते बाले उपधिमपहरन्ति । अथवेदमाचक्षते- उपधिमभ्यन्तराद् बहिरपनय यावद्बलिं वयं विदध्महे ; स च बालस्तत्कार्यमजानानः समस्तमुपकरणमेकवारं ग्रहीतुमशक्नुवन् स्तोकं गृहीत्वा बहिः संस्थाप्य यावदन्यस्य ग्रहणाय मध्ये प्रविशति तावत्ते धूर्ता अपहरन्ति १। धम्मकहत्ति धर्मकथाश्रवणाय केचित्स्वभावत आगच्छेयुः, अपरे कैतवेन; समागत्य चेदं ब्रुवते- 'कथय क्षुल्लक ! अस्माकं धर्मकथाम्,' स च तत्त्वमजानानः कथामारभते, ततः कथाप्रमत्ते केचित्तत्रैवोपविष्टाः शृण्वन्ति, |* अपरे तूपधिमपहरन्ति २। किड्डत्ति क्रीडानिमित्तमपि केचित् स्वभावतः समागच्छन्ति, अपरे | . गाथा १७७२ योग्याऽयोग्यवसतिपालाः ८१६ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy