________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
I
चतुर्थ उद्देशकः ८१२ (A)
भुञ्जीत। अथवा यथासमाधि क्षीरादि भुङ्क्ताम्, केवलं ‘मा गृद्धिर्भूयाद्' इति संसृष्टपानकादिना मीलयित्वा क्षीरमापिबेत् ५ ॥ १७६१॥
सम्प्रति जनाकुलपदव्याख्यानार्थमाहचउभंगो अजणाउल-कुलाउले चेव ततियओ गज्झो । । भोडयमादि जणाउल, कलाउल मडंबमादीस् ॥ १७६२ ॥ दारं ६॥
जनाकुल-कुलाकुलयोश्चतुर्भडिका- जनाकुलमपि कुलाकुलमपीति प्रथमो भङ्ग:१ जनाकुलं न कुलाकुलमिति द्वितीयः२ न जनाकुलं कुलाकुलमिति तृतीयः३ न जनाकुलं नापि कुलाकुलमिति चतुर्थ:४। प्रथमभङ्गे बहूनि कुलानि बहूनि मानुषाणि १। द्वितीयभङ्गे कुलानि स्तोकानि जनास्त्वतिबहवः, कुले कुले भोजिकादिजनानां सहस्रसङ्ख्याया भावात् २। तृतीयभङ्गे बहूनि कुलानि जनाः स्तोकाः, गृहे गृहे एकस्य द्वयोर्वा मानुषयोर्भावात् ३। चतुर्थभङ्गे न बहूनि कुलानि नापि बहवो जनाः, कतिपयकुलानां प्रतिकुलं च स्तोकमानुषाणां भावात् ४॥ अत्र यौ भङ्गौ ग्राह्यौ तावाह-अजणाकुलेत्यादिना- न जनाकुलं कुलाकुलमिति तृतीयो ग्राह्यः। एतदनुज्ञानात् प्रथमः सुतरामनुज्ञातो द्रष्टव्यः, तस्योभयगुणोपेतत्वात् । आह
गाथा
४१७६२-१७६६
क्षेत्रगुणाः १३ ८१२ (A)
For Private and Personal Use Only