________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ८१२ (B)/
च चूर्णिकृत् - "जइ ताव तइओ भंगो अणुण्णाओ प्रागेव पढमो भंगो अणुण्णातो" इति। शेषौ तु द्वौ भगौ नानुज्ञातौ, कुलानामल्पत्वात् । सम्प्रति जनाकुलतां कुलाकुलतां च व्याख्यानयति-भोइय इत्यादि। प्रथमभङ्गे द्वितीयभङ्गे च जनाकुलम् भोजिकादिभिरतिप्रभूतैर्जनैराकीर्णत्वात्। कुलाकुलं मडम्बादिषु स्थानेषु, तथा च मडम्बे अष्टादश कुलसहस्राणि, आदिशब्दात्पत्तनादिपरिग्रहः ॥१७६२॥ व्याख्यातं जनाकुलद्वारम् ६। अधुना वैद्यद्वारमौषधद्वारं च युगपदाहवेज्जस्स ओसहस्स व, असतीए गिलाणओ उ जं पावे । वेजसगासं निते, आणेते चेव जे दोसा ॥ १७६३॥ दारं ७-८॥
गाथा यदि नाम कोऽपि ग्लानो जायते तदा वैद्यस्य औषधस्य वाऽसति अभावे यद् ग्लानो |२७६२-१७EE अनागाढा-ऽऽगाढपरितापनादि प्राप्नोति तन्निमित्तं सर्वं प्रायश्चित्तमाचार्यः प्राप्नोति । अन्यच्च क्षेत्रगुणा: १३ तादृशे क्षेत्रेऽवतिष्ठमानो वैद्योऽत्र नास्तीति ग्लानेऽन्यस्मिन् ग्रामे वैद्यस्य सकाशं नीयमाने
८१२ (B)
१. अणंते- वा. मो. पु.॥
For Private and Personal Use Only