________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आगाढाऽनागाढपरितापनादिकं दोषं प्राप्स्यन्ति, तन्निमित्तं सर्वमपि प्रायश्चित्तमाचार्यो लप्स्यते, तस्माद्यत्र तदभावस्तत्र न वस्तव्यम् ॥ १७५७॥
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८११ (A/
अत्र पर आहनणु भणितो रसचाओ, पणीयरसभोयणे य दोसा उ । किं गोरसेण भंते!, भण्णइ सुण चोयग! इमं तु ॥ १७५८ ॥
ननु सूत्रे रसानां- क्षीरादीनां त्यागो भणितः, "अनशनमूनोदरता, वृत्तेः सक्षेपणं रसत्यागः" [प्रशमरति गा.१७५] ' इत्यादिबाह्यतपोव्यावर्णनात्; प्रणीतरसभोजने च दोषाः कामोद्रेकादयः, शरीरोपचयादिभावात्; ततः किं भदन्त! गोरसेन कर्तव्यम् ? । सूरिराहभण्यते श्रृणु चोदक! इदं वक्ष्यमाणम् ॥ १७५८ ।।
तदेवाहकामं तु रसच्चाओ, चतुत्थमंगं तु बाहिरतवस्स ।। सो पुण सहूण जुज्जति, असहूण य सज्ज वावत्ती ॥ १७५९ ॥
गाथा १७५६-१७६१ क्षेत्रगुणा: १३
८११ (A)
For Private and Personal Use Only