SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८१० (B) वसतौ सङ्कटायां सत्यामुपधे: विरल्लेति विस्तारणे अविस्तारणे वा दोषा भवन्ति। के ते? इति चेद्, उच्यते- यदि उपधिस्तीमितो विस्तार्यते ततः स वसतेः सङ्कटत्वादन्यमप्यतीमितमुपधिं तीमयति। अथ न विस्तार्यते तर्हि स कोथमुपयाति, तत्संसर्गतः शरीरस्य च मान्द्यमुपजायते। एकस्याश्च वसतेः कथमपि व्याघाते अन्यस्याश्च अभावे ग्रामान्तरं व्रजनीयम्, तत्र च व्रजति संयमाऽऽत्म-प्रवचनविराधना। तथाहि- मार्गे जलहरितकायादिव्यापादनात् संयमविराधना, अगाधे सलिले प्रविशत आत्मविराधना, वसत्यलाभतो वर्षाकालेऽपि वर्षाप्रपातेनावरुध्यमानान्पथि गच्छतस्तान् दृष्ट्वा लोकः प्रवचनं कुत्सयते- ईदृशा एवैते, वर्षास्वपि नाऽऽश्रमं क्वचिदपि लभन्ते इति प्रवचनविराधना ४ ॥ १७५६॥ गोरसाभावे दोषानाह गाथा अतरंतबाल-वुड्डा, अभाविता चेव गोरसस्सऽसती । *१७५६-१७६१ जं पाविहिंति दोसं, आहारमएसु पाणेसु ॥ १७५७ ॥ * क्षेत्रगुणा: १३ अतरन्तो नाम असहाः तथा बाला वृद्धाश्च तथा ये अभाविता येषां गोरसव्यतिरेकेण | ८१० (B) नान्यत्किमपि प्रतिभासते ते गोरसस्य असति अभावे आहारमयेषु प्राणेषु सत्सु यद् | . For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy