________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ८१० (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
मुइङ्गा नाम- पिपीलिका, वृश्चिकादिषु शेषेषु च प्राणेषु बाहुल्येन संभवत्सु द्वौ दोषौ। तद्यथा- संयमे, चशब्दादात्मनि च, आत्मविराधना संयमविराधना चेत्यर्थः। तत्र वृश्चिकादिभिर्देशादात्मविराधना, कीटकादिसत्त्वव्याघाताच्च संयमविराधना २। स्थण्डिलाभावे दोषानाह- नियमेत्यादि, स्थण्डिलाभावे अस्थण्डिले जुगुप्सिते वा स्थण्डिले निसर्गे पुरीषप्रश्रवणोत्सर्गे नियमाद् दोषाः संयमविराधनादयः। तत्र अस्थण्डिले हरितकायादिव्यापादनात् संयमविराधना, पादादिल्हसनादात्मविराधना, जुगुप्सिते स्थण्डिले प्रवचनविराधना। अथैतद्दोषभयान्न व्युत्सृजति किन्तु धारयति तत आह- धारणे च दोषा आत्मविघातादयः। तथा च पुरीषादिधारणे जीवितनाशादिः, 'मुत्तनिरोहे चक्खं, वच्चनिरोहे य जीवियं चयति' [ ओघ नि. गा. १९८ ]' इत्यादिवचनात् । ग्लानत्वे च चिकित्साकरणतः संयमव्याघातः, ३ ॥१७५५ ॥
यत्र सङ्कटा वसतिर्यत्र च द्वित्रादयो वसतयो न लभ्यन्ते तत्र दोषानाहवसहीए संकडाए, विरल्ल- अविरल्लणे भवे दोसा । वाघातेण व अण्णाऽसतीए दोसा उ वच्चंते ॥ १७५६ ॥ दारं ४।।
गाथा ४१७५६-१७६१
क्षेत्रगुणाः १३
८१० (A)
For Private and Personal Use Only