________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः
८०९ (B)
निजशरीरोपकरणखरण्टनं चेति परिग्रहः ॥ १७५३॥
धुवणे वि होंति दोसा, उप्पिलणादी य बाउसत्तं च । सेहादीणमवण्णा, अधोवणे चीरनासो वा ॥ १७५४ ॥ दारं १ ।
कर्दमाकुले मार्गे गमनतः कर्दम उपकरणे लगति, तस्य चोपकरणस्य धावनेऽपि, आस्तामधावने इत्यपि शब्दार्थः, दोषाः। के ते? इत्याह- उत्पीडनादयः, उत्पीडनंप्राणादीनां प्लावनम्, आदिशब्दात् शरीरायास-स्वाध्यायविघातादिपरिग्रहः । अपि च वस्त्राणि शरीरं च प्रक्षालयतो बाकुशिकत्वमुपजायते, शरीरोपकरणबकुशीकरणात्। अथ न प्रक्षालयति, तर्हि अधावने शैक्षकादीनामवज्ञासम्भवः, चीवरनाशश्च कर्दमेन शटनात् । वाशब्दः समुच्चये १ ॥ १७५४॥
सम्प्रति प्राणसम्भवे दोषानाहमुइंग-विच्छुगादिसु, दो दोसा संजमे च सेसेसु । दारं २। नियमा दोस दुगुंछिय, अथंडिल निसग्ग धरणे य ॥ १७५५ ॥ दारं ३।
गाथा १७५०-१७५५ चातुर्मास
योग्यक्षेत्रगुणाः १३
८०९ (B)
For Private and Personal Use Only