________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ८०७ (A)
ग्लान्यं मरणसल्लत्ति सशल्यमरणमेते द्वे अपि पूर्वं द्वितीयोद्देशके प्रथमसूत्रे ये दोषतया सविस्तरं वर्णिते ते एव निरवशेषे अत्रापि वक्तव्ये। नवरं तत्र द्वितीयपदमपवादपदं नोक्तम्, इह तुकारः पादपूरणे, तदुच्यते ॥ १७४७ ॥
तदेवाहअसिवादिकारणेहिं, अहवा फिडिया उ खेत्तसंकमणे । तत्तियमेत्ता व भवे, दोण्हं वासासु जयण इमा ॥ १७४७ ॥
अशिवादिभिः कारणैभवपि वर्षास विहरतः, अथवा एकस्मात् क्षेत्रादन्यस्मिन् क्षेत्रे सक्रमणे कथमपि मार्गतः स्फिटितौ परिभ्रष्टावेकत्र वर्षासु विहरतः। उपलक्षणमेतत्, तेनैतदपि द्रष्टव्यम्- अशिवादिकारणतो गणस्फेटनं कृत्वैकाकिनो जाताः, सङ्केतवशाच्च क्वचिद्वर्षासु द्वौ मिलिताविति । तत्तियमेत्ता व भवे इति अथवा शेषाः प्रतिभग्ना मृता वा अवशिष्टौ तावन्मात्रावेव द्वावेव भवतस्तिष्ठतः। एवं द्वौ वर्षासु सम्भवतः। तयोश्च द्वयोर्वर्षासु इयं वक्ष्यमाणा यतना ॥ १७४७ ।।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
गाथा १७४३-१७४९
सकारणे द्विकविहारे
यतना
८०७ (A)
तामेवाह
For Private and Personal Use Only