________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८०६ (A)
तदेवं "विराधना वसत्यादेः" इति व्याख्यातम् १। सम्प्रति "संथारग उवगरणे" [गा. १७३२] इति व्याख्यानयति
कप्पट्ठग संथारे, खेलण लहुगो तुवट्टे गुरुगो उ । नयणे डहणे चउलहु, एत्तो उ महल्लए वोच्छं ॥ १७४३ ॥
संस्तारे उपाश्रये यदि कप्पट्ठगत्ति बालकः खेलति-क्रीडति ततः खेलने प्रायश्चित्तं लघुको मासः । अथ त्वग्वर्तनं कुर्यात्तर्हि त्वग्वर्तने कृते गुरुको मासः। अथ स बालकस्तत्र स्थितः स्तेनेन नीयते प्रदीपनकेन वा लग्नेन दह्यते तदा चतुर्लघु। अत ऊर्ध्वं महति त्वग्वर्तनादि कुर्वति प्रायश्चित्तं वक्ष्ये॥ १७४३ ।।
गाथा १७४३-१७४९
सकारणे द्विकविहारे
यतना
प्रतिज्ञातमेव निर्वाहयति
तुवट्ट नयण डहणे, लहुगा गुरुगा हवंतऽणायारे । अह उवहम्मति उवहित्ति घेत्तुणं हिंड मासलहुं ॥ १७४४ ॥
८०६ (A)
For Private and Personal Use Only