SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८०५ (B) x अथ तत्र एकस्तिष्ठति एको हिण्डते तत उभयथा उभयेन प्रकारेण, यस्तिष्ठति तद्गता यश्च हिण्डते तद्गगताश्चेत्यर्थः, स्वलिङ्गसेवनादयो दोषाः स्वलिङ्गसेवना-संयतीप्रतिसेवना, आदिशब्दात्परलिङ्गसेवना गृहलिङ्गसेवना च परिगृह्यते । कथम्भूताः? इत्याह-आत्मोत्थाः, आत्मनैव संयत्यादिकं कदाचित्प्रार्थयते इत्यर्थः। तथा परे परतः संयत्यादिकृतक्षोभनात्, उभयतः स्वतः परतश्च समुत्थाः ॥ १७४१॥ यदुक्तं प्राक् “सोच्चा गयत्ति लहुगा''[१७४०] इत्यादिगाथापूर्वार्ध, तद्व्याख्यानार्थमाहसुण्णे सागरि दटुं, संथारे पुच्छे कत्थ समणा उ । सोउं गयत्ति लहुगा, अप्पत्तियछेदे चउ गुरुगा ॥ १७४२ ॥ दारं १ ॥ संस्तरन्ति साधवोऽस्मिन्निति संस्तार:- उपाश्रयः, सागारिकः शय्यातरः, सप्तमी प्राकृतत्वाद् द्वितीयार्थे, ततोऽयमर्थः- शून्यं संस्तारमुपाश्रयं सागारिको दृष्ट्वा पृच्छेत्- कुत्र गता: श्रमणाः? इति। तत्र प्रतिवचः श्रुत्वा गताः इति ज्ञाते अप्रीत्यकरणे प्रायश्चित्तं चत्वारो लघुकाः। अप्रीतिके समुत्पन्ने छेदे च तद्व्यान्यद्रव्यव्यवच्छेदे चत्वारो गुरुकाः॥ १७४२ ॥ x. X. गाथा १७३८-१७४२ वसतिशून्यकारणे दोषाः ८०५ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy