SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८०५ (A) चतुर्गुरुकं प्रायश्चित्तम् २। अधुना 'मिच्छत्तबडुगमादी' [गा.१७३४] इति व्याख्यानयति-बडु चारणेत्यादि, बटुका द्विजातयः, चारणाः वैतालिकविशेषाः, भटाः प्रतीताः, ते 'गताः क्वापि साधवः' इति विज्ञाय तस्मिन् शून्ये उपाश्रये आवासयेयुः, तत्र च कलहादिप्रसङ्गः । तथा शून्यां वसतिमालोक्य कश्चित्तिरश्चो मनुष्यो वा समागत्य म्रियेत, तत्र च राजग्रहादिदोषसम्भवः । तथा केचित् शय्यातरस्य प्राघूर्णकाः 'शून्येयं वसतिः' इति कृत्वा शय्यातरानुज्ञया तत्र तिष्ठेयुः, न च ते निष्काशयितुं शक्यन्ते, निष्काशने वा प्रद्वेषादिप्रवृत्तिः । तथा तिरश्ची मानुषी वा प्रसवितुकामा शून्यां दृष्ट्वा तत्राऽऽगत्य प्रसुवीत। तस्याः निष्केतने आश्रयत्याजने संयमविराधनादयो दोषा यथोक्ताः प्राक्। एते उपाश्रये शून्ये क्रियमाणे दोषाः ॥१७४० ॥ गाथा १७३८-१७४२ वसतिशून्यकारणे दोषाः सम्प्रति 'अच्छंते सलिंगमादीणि' [गा.१७३४] इति व्याख्यानयति ८०५ (A) अह चिट्ठति तत्थेगो, एगो हिंडइ उभयहा दोसा ।। सलिंगसेवणादी, आउत्थ परे य उभयतो य ॥ १७४१ ॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy