SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८०४ (B) भूमिकर्मादिषु भूमिकर्म-सम्मार्जना-ऽऽमर्जन-कुड्यलेपन-धवलनेषु देशतः प्राशुकेषु कृतेषु प्रत्येकं प्रायश्चित्तं भवति मासलघु। सर्वस्मिन् उपाश्रयेषु प्राशुकेषु कृतेषु प्रत्येकं चत्वारो लघुकाः। अप्राशुकेनापि जलादिना देशतः सर्वतो वा भूमिकर्मादिषु कृतेषु प्रत्येकं चत्वारो लघुकाः ॥१७३९॥ सम्प्रति शय्यातरमधिकृत्य प्रायश्चित्तविधिमाह-- सोच्चा गयत्ति लहुगा, अप्पत्तिय गुरुग जं च वोच्छेदो । दारं २। बडु चारण भड मरणे, पाहुण निक्केयणा सुण्णे ॥ १७४० ॥ दारं ३। | शय्यातरो यदि शून्यां वसतिमालोक्य, कस्यापि पार्श्वे दृष्ट्वा श्रुत्वा च एतज्जानाति, यथा- 'गताः साधवः' इति, न चाप्रीतिरुत्पन्ना तदा प्रायश्चित्तं चत्वारो लघुकाः। अथाप्रीतिकं करोति, यथा- 'अदाक्षिण्या एते, अनापृच्छया गताः' इति, तर्हि गुरुगत्ति चत्वारो गुरुका मासाः। अथैकाऽनेकभेदेन तद्रव्याऽन्यद्रव्यव्यवच्छेदस्तदा तन्निमित्तमपि गाथा १७३८-१७४२ वसतिशून्यकारणे दोषाः ८०४ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy