________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८०४ (A)
भूमिस्थानानि भक्त्वा सर्वत्र समभूमिकरणम्। संपुच्छणा सम्मार्जन्या सम्मार्जनम्। आमर्जनं |. मृद्-गोमयादिना लिम्पनम् । तथा कुड्यानां लेपनम्। कुड्यानामेव च दुमणंति धवलनम्। एतत्परिकर्म कुर्युः ॥ १७३७॥
अत्रैव प्रायश्चित्तविधिमाहजइ ढक्वित्तोच्छेवा, तति मास बिलेसु गुरुग सुद्धेसु । पंचेंदियउद्दाते, एगद्गतिगे उ मूलादी ॥ १७३८॥
यति यावन्त उच्छेवा ढक्कित्ता समारचितास्तति तावन्तो लघुमासाः प्रायश्चित्तम्। बिलेषु | शुद्धेषु पञ्चेन्द्रियजीवरहितेषु स्थगितेषु गुरुगत्ति चत्वारो गुरुका मासाः। अथ पञ्चेन्द्रियव्याघातो | बिलस्थगने अभूत् तत एकद्वित्रिषु व्याहतेषु यथाक्रमं मूलादि। एकस्मिन् पञ्चेन्द्रियेऽपद्राविते मूलम्, द्वयोरनवस्थाप्यम्, त्रिषु त्रिप्रभृतिषु पाराञ्चितमिति ॥ १७३८ ॥
भूमीकम्मादीसु, फासुग देसे उ होइ मासलहुं ।
सव्वम्मि लहुग अप्फासुगेण देसम्मि सव्वे वा ॥ १७३९ ॥ १. संपुंसना- पु. प्रे. ॥ २. जनम् उदक गोम ॥
गाथा १७३८-१७४२ वसतिशून्यकारणे दोषाः
८०४ (A)
For Private and Personal Use Only