________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ८०३ (B)
तदेवं 'गोणे साणे' इत्यादि व्याख्यातम् । अधुना 'परिकम्मे 'त्ति व्याख्यानयतिदुक्खं ठिएसु वसही, परिकम्मं कीरइ त्ति इति नाउं । भिक्खादिनिग्गएसुं, सअट्ठमीसं विमं कुज्जा ॥ १७३६ ॥
ते गृहस्थाः परिभावयन्ति-स्थितेषु साधुषु दुःक्खं महता कष्टेन वसतेः परिकर्म क्रियते, स्वाध्यायभङ्गादिदोषभावात्। गतेषु तु न कश्चिद् दोष इति ज्ञात्वा परिभाव्य भिक्षादिनिमित्तं निर्गतेषु साधुषु सअट्ठत्ति स्वार्थं स्ववसतिबलिष्ठताकरणा) मिश्रं वा संयता अपि सुखेन स्वाध्यायादिकं शयनादिकं च कुर्युरिति स्वार्थं संयतनिमित्तं च इदं वक्ष्यमाणं परिकर्म कुर्युः ।। १७३६।।
तदेवाऽऽहउच्छेव बिलत्थगणे, भूमीकम्मे संपुच्छणाऽऽमजे । कुड्डाण लिंपणं दूमणं च एयं तु परिकम्मं ॥ १७३७ ॥
उच्छेवो नाम यत्र पतितुमारब्धं तत्रान्यस्येष्टकादेः संस्थापनम्। बिलस्थगनं कोलादिकृतबिलेष्विष्टकाशकलादि प्रक्षिप्योपरि गोमयमृत्तिकादिना पिधानम् । भूमिकर्म नाम विषमाणि
गाथा १७३२-१७३७
चातुर्मासे सामाचारी
८०३ (B)
For Private and Personal Use Only