________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८०३ (AN
एषापि द्वारगाथा। तत्र गवादिद्वारव्याख्यानार्थमाहगोणादीए पविटे, धाडतमधाडणे भवे लहुया । अहिगरण-वसहिभंगा, तह पवयणे संजमे दोसा ॥ १७३५ ॥ दारं १॥ |
गवादिके गो-श्व-छगल-शूकरादिके प्रविष्टे यदि तान् गवादीन् धाटयति ततस्तप्तायोगोलककल्पास्तिर्यञ्च इति तद्धाटने भवति प्रायश्चित्तं चत्वारो लघुकाः। तथा ते गवादयो निर्धाटिताः सन्तो हरितादीनि खादेयुस्ततोऽधिकरणदोषसम्भवः। अधाडणेत्ति अथ न निर्धाटयति तर्हि वसतिभङ्गः,तथा प्रवचने संयमे च दोषाः प्रवचनविराधना संयमविराधना, उपलक्षणमेतत्, आत्मविराधना चेत्यर्थः । तथाहि यदि श्वादयो बालमृतकलेवरादि भक्षयन्तस्तिष्ठन्ति तदा महती प्रवचनस्य कुत्सेति प्रवचनविराधना। शूकरप्रभृतयश्चाऽनिष्कास्यमानाः कदाचित्सम्मुखा अपि चलेरन् तत आत्मविराधना, श्वादयश्च तिष्ठन्तो मार्जार-मूषिकादिकमुपहन्युरिति संयमविराधना ॥१७३५ ॥
गाथा १७३२-१७३७
चातुर्मासे सामाचारी
८०३ (A)
For Private and Personal Use Only