________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८०२ (B)
साम्प्रतमेनामेव विवरीषुः प्रथमतो विराधना वसत्यादेरिति विवृण्वन्नाहसुण्णं मोत्तुं वसहिं, भिक्खादिकारणाउ जइ दोवि । वच्चंति ततो दोसा, गोणाईया हवंति इमे ॥ १७३३ ॥
यदि द्वावपि शून्यां वसतिं मुक्त्वा भिक्षादिकारणवशतो व्रजतस्ततः इमे वक्ष्यमाणा दोषाः गवादिकाः गवादिनिमित्ता भवन्ति ॥ १७३३ ।।
तानेवाऽऽहगोणे साणे छगले, सूगरमहिसे१ तहेव परिकम्मे । मिच्छत्तबडुगमादी३, अच्छंते सलिंगमादीणि ४ ॥ १७३४ ॥ दारगाहा ।।
गौः श्वा छगलः शूकरो महिषो वा शून्यां वसतिमवबुध्य प्रविशेत् । तथा परिकर्म गृहस्थः | कुर्यात् । यदि वा मिथ्यात्वोपहता बटुकादयः प्रविशेयुः। अथैको गच्छत्येकः पश्चात्तिष्ठति ततः एकस्मिन् पश्चात्तिष्ठति स्वलिङ्गादीनि स्वलिङ्गप्रतिसेवनादय आत्मपरोभयसमुत्था बहवो दोषाः ।। १७३४॥
गाथा १७३२-१७३७
चातुर्मासे सामाचारी
८०२ (B)
For Private and Personal Use Only