SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री एते, क्वाप्यनापृच्छय गताः' इति प्रद्वेषतस्तेषां सर्वेषां वा तद् द्रव्यस्यान्यद्रव्यस्य वा व्युच्छेदः क्रियेत । यत इमे दोषास्तस्मात् शून्या वसतिः न कर्तव्या इति जघन्यतोऽप्याचार्यस्योपाध्यायस्य चाऽऽत्मतृतीयस्य वर्षाकाले विहारः, अन्यथा प्रायश्चित्तम् ॥ १७३१॥ व्यवहारसूत्रम् चतुर्थ उद्देशकः ८०२ (A) तथा चाऽऽहवासाण दोण्ह लहुया, आणादिविराहणा वसहिमादी१ । संथारग उवगरणे२, गेलन्ने ससल्लमरणे य ॥ १७३२ ॥ दारगाहा। यदि पुनद्वौ जनौ वर्षाकाले वसतस्तदा प्रायश्चित्तं चत्वारो लघुकाः आज्ञादयश्च दोषाः। तथा विराधना वसत्यादेः, आदिशब्दादात्म-संयम-प्रवचनपरिग्रहः १। तथा संस्तारकविषये उपकरणविषये च भूयांसो दोषाः २। तथा द्वयोर्जनयोर्विहरतोरेकः कथञ्चनापि ग्लानो जायेत ततो ग्लानं वसतौ मुक्त्वा परस्मिन् भिक्षादिनिमित्तं बहिर्गते ये पश्चाद् ग्लानस्य दोषा | द्वितीयोद्देशकेऽभिहिताः, यच्च सशल्यस्य सतो मरणं तदेतत्सर्वमत्रापि द्रष्टव्यम्। एष द्वारगाथासक्षेपार्थः ॥ १७३२॥ गाथा १७३२-१७३७ चातुर्मासे सामाचारी ८०२ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy