________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
४
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८०१ (B)
त्मद्वितीययोराचार्योपाध्याययोः धुत्या देहेन चाकम्प्ययोः अचाल्ययोः, धृतेर्वज्रकुड्यसमानत्वात्, देहस्य च प्रथमसंहननात्मकत्वात्, कल्पते वासः ।।१७३० ॥
तदेवमृतुबद्धकालविषयाणि सूत्राणि भाष्यकृता प्रपञ्चितानि । सम्प्रति वर्षाकालविषयाणि प्रपञ्चयतिनियमा होइ असुण्णा, वसही नयणे य वणिया दोसा । दुस्संचर बहुपाणा, वासावासे विउच्छेदो ॥ १७३१ ॥
वर्षावासे वर्षाकाले नियमाद्वसतिरशून्या कर्तव्या । किं कारणम् ? इति चेत्, उच्यतेवर्षासपकरणं सह न नीयते। अथ भिक्षादि गच्छन्नयति तर्हि वर्षाप्रपातेन तिम्यते। तथा चाह- उपकरणस्य सह नयने पूर्वं कल्पाध्ययने तेमनादयो दोषा वर्णिताः। अन्यच्च शून्यायां वसतौ कृतायां गवादिभिर्भञ्जनं भटादिभिर्वा रोधनं भवेत् । तथा च सत्यन्यस्यां वसतौ गन्तव्यम् । तस्या अलाभे अन्यद् ग्रामान्तरं गमनीयम्। तत्र च दुस्सञ्चरा मार्गाः सलिल-हरितादिभिरात्मविराधना-संयमविराधनाभावात् । तथा बहुप्राणा मार्गाः, द्वित्रिचतु:पञ्चेन्द्रियाणामनेकजातीयानां सम्मूर्च्छनात् । तथा शय्यातरेण शून्यां वसतिमालोक्य 'अदाक्षिण्या
गाथा १७२७-१७३१
चत्वारः कल्पाः
८०१ (B)
For Private and Personal Use Only