________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् पंचम
उद्देशकः १०३४ (B)IX
घेप्पंतु ओसहाई, वणपट्टा-मक्खणाणि विविहाणि । सो बेयऽमंगलाई, मा कुणह अणागयं चेव ॥२३८४॥
द्वयोर्दण्डिकयोरुपस्थिते सङ्ग्रामे मिलिते च द्वयोरपि बले, द्वयोरपि राज्ञोर्चाद्या उपस्थिताः। तत्र एको दण्डिको वैद्यानत्र सङ्ग्रामप्रस्तावे उपस्थितान् वारयति। न यूयं युद्धकोविदाः। ततः किं युष्माभिः सङ्ग्रामे कर्तव्यम् ? एवमुक्ते ते वैद्याः प्राहुः- यद्यपि न वयं युद्धकोविदास्तथापि प्रहारव्रणितेष्वस्माकं वैद्यक्रियोपयोगिनी तस्माद्वयमागच्छामः, गृह्यन्तां चौषधानि व्रणपट्टा विविधानि चानेकप्रकाराणि च म्रक्षणानि। एवमुक्ते स दण्डिको ब्रवीति-मा कुरुतानागतमेवामङ्गलानि तस्मान्निवर्तध्वं यूयमिति ॥२३८३-८४ ॥
किं घेत्तव्वं रणे जोग्गं? पुच्छिया इतरेण ते ।
भणंति वणतेल्लाइं, घयदव्वोसहाणि य ॥२३८५॥ ___ इतरेण द्वितीयेन दण्डिकेन ते आत्मीया वैद्याः पृष्टाः, किं रणे संग्रामे योग्यं गृहीतव्यम् ? | एवमुक्तास्ते भणन्ति-व्रणरोहकाणि तैलानि व्रणतैलानि, तथाऽतिजीर्णं घृतं, द्रव्यौषधानि
܀܀܀܀܀܀܀
गाथा २३८२-२३८८
औषधसग्रहकारणे शिष्यस्य तर्कः
.१०३४ (B)
For Private and Personal Use Only