________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
पंचम
उद्देशकः १०३४ (A)
चोदयति प्रश्नयति शिष्यो यथा- परकरणे परपक्षे वैयावृत्त्यकरणं दोषपरिहरणहेतोः दोषपरिहरणनिमित्तं नेच्छामः । किं पुनः केवलं भैषज्यगणः औषधसमूहो ग्लानरक्षार्थं गृहीतव्यः ॥२३८१॥
अत्रैव विपक्षे दोषमाह-- पुव्वं तु अगहिएहिं, दूरा जा ओसहाई आणंति । ता चत्तो उ गिलाणो, दिटुंतो दंडियाईहिं ॥२३८२॥
पर्वमगहीतेष ग्लानप्रायोग्येषु भैषजेषु, गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् । यावदार्या | दूरादौषधान्यानयन्ति, तावद् ग्लानस्य आगाढादि परितापना भवति। तद्भावे च स परमार्थतस्त्यक्तो भवति। अत्रार्थे च दृष्टान्तो दण्डिकादिभिः ॥ २३८२ ॥
तमेव विभावयिषुरिदमाहउवट्ठियम्मि संगामे, रण्णो बलसमागमे । एगो वेज्जेऽत्थ वारेइ, न तुब्भे जुद्धकोविया ॥२३८३॥
गाथा २३८२-२३८८
औषधसङ्ग्रहकारणे शिष्यस्य तर्कः
१०३४ (A)
For Private and Personal Use Only