________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पंचम
उद्देशकः
१०३३ (B)
܀܀܀܀܀
www.kobatirth.org
किं कारणं विपक्षे वैयावृत्त्यं न कल्पते ? इत्याक्षेपः । विपक्षे दोषदर्शनं सिद्धिः प्रसिद्धिः । अत्रार्थे लोके वेदे समये च विरुद्धसेवादयो ज्ञातानि । किमुक्तं भवति ? यथा लोके वेदे समये च विरुद्धसेवायामकल्पिकसेवायां च दोषोपदर्शनम् तदकरणे प्रसिद्धिः । एवमिहापि विपक्षे वैयावृत्त्यकरणेऽपायदर्शनमेव तदकरणे प्रसिद्धिः ॥२३७९ ॥
तम्हा सपक्खकरणे, परिहरिया पुव्ववण्णिया दोसा । कप्पे छट्टुद्देसे, तह चेव इहंपि दट्ठव्वा ॥२३८०॥
Acharya Shri Kailassagarsuri Gyanmandir
यस्मादेवं विपक्षे वैयावृत्त्यकरणे प्रायश्चित्तादयो दोषास्तस्मात्सपक्षे वैयावृत्त्यं कर्तव्यम् । सपक्षे वैयावृत्त्यकरणे च ये पूर्ववर्णिता दोषास्ते यथा कल्पाध्ययने षष्ठोद्देशे परिहृतास्तथा चैव इहापि द्रष्टव्याः ॥ २३८० ॥
अत्र परप्रश्नमाह
चोएती परकरणं, नेच्छामो दोसपरिहरणहेउं ।
किं पुण सज्जगणो, घेतव्वो गिलाणरक्खट्टा ॥२३८१ ॥
For Private and Personal Use Only
गाथा
| २३७५-२३८१ विपक्षे वैयावृत्त्ये निषेधः
जयणा च
१०३३ (B)