________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
पंचम उद्देशकः १०३३ (A)
चोपदर्शिते उच्चारितसूत्रस्य छिन्नानि पदानि कर्तव्यानि, पदच्छेदो विधातव्य इत्यर्थः । ततो यानि पदानि विग्रहभाञ्जि तेषु विग्रह उपदर्शनीयः। विग्रहीते च सूत्रेऽर्थो व्याख्येयः ॥२३७७॥
अक्खेवो पुण कीरइ, कत्थइ विणा वि तस्सिद्धी । जत्थ अवायनिदरिसणं, एसेव उ होइ अक्खेवो ॥२३७८ ॥
आक्षेपः पुनः क्वचित् क्रियते। यथा किं कारणं परपक्षे वैयावृत्त्यं न क्रियते ? कुत्रचित्पुन-विनाप्याक्षेपं तत्सिद्धिः आक्षेपसिद्धिः। कथम्? इत्याह-यत्राऽपायनिदर्शनम् अपायप्रकटनमेष एव भवत्याक्षेपः, आक्षेपहेतुकत्वात्। न खल्वाक्षेपसूचामन्तरेणापायप्रदर्शनं विपक्षे भवतीति परिभावनीयमेतत् ॥२३७८ ॥
गाथा २३७५-२३८१
विपक्षे वैयावृत्त्ये निषेधः जयणा च
सम्प्रत्याक्षेपप्रसिद्धी एव वैविक्त्येनाह
किं कारणं न कप्पइ?, अक्खेवो दोसदरिसणं सिद्धी । __लोए वेदे समए, विरुद्धसेवादयो नाया ॥२३७९॥
१०३३ (A)
For Private and Personal Use Only