________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः
१०३२ (A)
܀܀܀
•*****
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनन्तरसूत्रे विपक्षे वैयावृत्त्यकरणं प्रतिषिद्धम् । तच्चेदम् - वैयावृत्त्यं खलु पुनर्द्विपक्षे स्वपक्षे परपक्षे चेत्यर्थः, सूत्रेणैवाऽनुज्ञातम् । " अंत्थि या इत्थ ण्हं केई वेयावच्चकरे कप्पति ण्हं वेयावच्चं करावेत्तए” इति वचनात् । सा च समनुज्ञा वैयावृत्त्यसमनुज्ञा इहापि अस्मिन्नपि सूत्रेऽभिधीयते। केवलं कल्पयोर्नानात्वम् अधिकमिति । एष सूत्रसम्बन्धः ॥ २३७४॥
पुनः प्रकारान्तरेण सम्बन्धमाह
अत्थेण व आगाढं, भणियं इहमवि य होइ आगाढं ।
अहवा अतिप्पसत्तं, तेण निवारेइ जिणकप्पे ॥ २३७५ ॥
वाशब्दः पक्षान्तरद्योतने। पूर्वसूत्रेऽर्थेनाऽऽगाढं भणितं सूचितं, तथा च आगाढे प्रयोजने समुत्पन्ने संयती संयतस्य वैयावृत्त्यं कुर्वती समनुज्ञाता, नान्यथा । इहापि च भवत्यागाढं प्रयोजनमधिकृत्य वैयावृत्त्यकरणमिति सम्बन्धः । अथवाऽतिप्रसक्तं खलु वैयावृत्त्यकरणं, तेन जिनकल्पे निवारयति ॥२३७५ ॥
१. अस्थि या इहि केई - पु. प्रे. ॥
For Private and Personal Use Only
गाथा
| २३७५-२३८१ विपक्षे वैयावृत्त्ये निषेध:
जयणा च
१०३२ (A)