________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पंचम
उद्देशकः
www.kobatirth.org
܀܀܀܀܀
पडिपुच्छिऊण वेज्जे, दुल्लभदव्वम्मि होइ जयणा उ । विसघाई खलु कणगं, निहि जोणीपाहुडे सड्ढे ॥२३७२ ॥
प्रतिपृच्छ्य वैद्यान् यदि दुर्लभद्रव्येण प्रयोजनं जातं ततस्तस्मिन् उत्पाद्ये भवति वक्ष्यमाणा यतना । तामेवाह - विसघाई इत्यादि, विषघाति खलु कनकं, विषेण चोपहताः साधवस्तिष्ठन्ति, ततः सुवर्णेन प्रयोजनं जातम् । तत्र यदि ज्ञानेन निधिर्निखातो ज्ञायते तर्हि १०३१ (A) * तमुत्खन्य यावता प्रयोजनं तावद् गृह्णाति, शेषं तथैव स्थापयति । अथ निधिपरिज्ञानं नास्ति तर्हि योनिप्राभृतोक्तेन प्रकारेणोत्पादयति । अथ योनिप्राभृतमपि नास्ति तर्हि श्राद्धान् श्रावकान् याचेत ॥२३७२ ॥
असतीए अण्णलिंगं, तं पि जयणाए होइ कायव्वं । गहणे पण्णवणे वा, आगाढे हंसमादी वि ॥ २३७३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ श्राद्धा अपि तादृशा न सन्ति ये सुवर्णं याचितं ददति, ततस्तेषां श्राद्धानामसति अभावे आत्मना ग्रहणाय प्रज्ञापनाय वा यत् तत्रान्यदर्चितं लिङ्गं तदपि यतनया कर्तव्यम् ।
१. ज्ञानमयेननिधि वा. मो. पु. मु. ॥ २. दयेत् - सं. मु. ॥
For Private and Personal Use Only
गाथा
| २३६८- २३७४ वैयावृत्त्य विधि:
१०३१ (A)