________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
H
/
व्यवहार
सूत्रम् पंचम
उद्देशकः १०२८ (A)
ऋतौ ऋतौ यैर्भज्यमानैः सेव्यमानैः भज सेवायामिति वचनात्, सुखं जन्यते तानि ऋतुभज्यमानसुखानि, तैस्तथा देहः शरीरं तस्य स्वो भावः स्वरूपं देहस्वभावः, तस्यानुलोमानि अनुकूलानि यानि भोज्यानि तैर्वैयावृत्त्यं कुर्वत्यः संयत्यो ये संयतीभिरानीतं भुञ्जते तेषां कठिनहृदयानामपि धृतिबलिष्ठानामपि संयमाद् मनोऽचिरेण कालेन वक्रयन्ति च्यावयन्तीत्यर्थः । कथम्भूताः? इत्याह-कैतविक्य: कैतवेन कपटेन अन्यन्मनसि अन्यद्वाचि इत्यादिलक्षणेन निर्वृत्ता: कैतविक्यः ॥ २३६० ॥
सम्प्रति द्वितीयपदे विपक्षेऽपि वैयावृत्त्यकरणे युक्तिमुपन्यस्यतिजह चेव य बितियपदे, दलंति आलोयणं तु जयणाए । एमेव य बिइयपदे, वेयावच्चं तु अण्णोण्णं ॥२३६१॥
यथा चैव द्वितीयपदे अपवादपदे विपक्षेपि यतनया संयत्यः श्रमणानां पार्श्वे आलोचनां । ददति। एवमेव द्वितीयपदे अन्योन्यस्मिन् परस्परस्य वैयावृत्यमपि कुर्वन्ति ॥२३६१॥
तदेव द्वितीयपदमाह
गाथा २३६१-२३६७
अपवादे विपक्षे वैयावृत्त्यम्
४१०२८ (A)
For Private and Personal Use Only