________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् |
܀܀܀܀܀܀܀܀
पंचम उद्देशकः
१०२७ (B)
वाक्यालङ्कारे, कल्पते अन्योन्यस्य वैयावृत्त्यं कारयितुं, अस्ति चेत् कश्चित् वैयावृत्त्यकरस्ततः कल्पते तं वैयावृत्त्यं कारयितुम्। नास्ति चेत् क्वचित् वैयावृत्त्यकरः एवं सति कल्पते अन्योन्यस्य वैयावृत्त्यं कारयितुमिति सूत्रसक्षेपार्थः ॥ अधुना भाष्यविस्तर:
आलोयणाए दोसा, वेयावच्चे वि हुँति ते चेव। नवरं पुण णाणत्तं, बितियपदे होइ कायव्वं ॥२३५९॥
ये एव विपक्षे आलोचयतां दोषा उक्ताः, परस्परं वैयावृत्त्येऽपि वैयावृत्त्यकरणेऽपि त एव, दोषा भवन्ति। ये चाभ्यधिकास्तेऽनन्तरगाथायां वक्ष्यन्ते। नवरं पुनर्नानात्वं द्वितीयपदे अपवादपदे भवति कर्तव्यम् ॥ २३५९ ॥ तत्राभ्यधिकान् दोषान् अभिधित्सुराहउउभयमाणसुहेहिं, देहसहावाणुलोमभुजेहिं । कढिणहिययाण वि मणं, वंकंतऽचिरेण कइयविया ॥२३६०॥
सूत्र २०
गाथा २३५५-२३६०
वैयावृत्त्यकरण विधिः
१०२७ (B)
For Private and Personal Use Only