________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पंचम
उद्देशकः १०२३ (A)
भयमिति निर्भयता, तद्भावाच्च भूयो भूयोऽपराधकरणप्रवृत्तिः । तथा पेल्लणयेति यदि महत् प्रायश्चित्तं ददाति ततः संयतो ब्रूते-न भवत्येतत्प्रायश्चित्तम्, किन्त्विदमिदमिति । एवं प्रायश्चित्तस्य प्रेरणा। तथा वतिन्यपि यदि संयतस्य पुरत आलोचयति ततः सा निजकान् दोषान् प्रकाशयन्ती गम्या भवति यथा एकवारं तावदिदमाचरितं, भूयोऽपि सम्प्रति मया सह समाचर्यतां पश्चात्प्रायश्चित्तं दास्यते इति ॥ २३४३ ॥ द्वितीयगाथा सम्प्रदायात् व्याख्येया॥ २३४४॥
यद्येवं तर्हि कथं पूर्वमार्यिकाः छेदश्रुतमधीयेरन् ? कथं चाऽऽलोचनां दधुः ? अत आहतो जाव अजरक्खिय, आगमववहारिणो वियाणित्ता । न भविस्सति दोसोत्ति, तो वायंती उ छेदसयं ॥२३४५॥
गाथा
२३४२-२३४७
आर्यरक्षितपर्यन्त आगमव्यवहारः
यावदार्यरक्षितास्तावदागमव्यवहारिणोऽभूवन्। ते चाऽऽगमव्यवहारबलेन विज्ञाय, यथा एतस्याश्छेदश्रुतवाचनायां दोषो न भविष्यतीति, संयतीमपि छेदश्रुतं वाचयन्ति स्म ॥ २३४५॥
आरेणाऽऽगमराहिया, मा विद्दाहिंति तो न वाएंति । तेण कहं कुव्वंतू, सोहिं तु अयाणमाणीतो? ॥२३४६॥
१०२३ (A)
For Private and Personal Use Only