________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पंचम
उद्देशकः १०२२ (A)
वा निर्ग्रन्थस्य, तदा प्रायश्चित्तं चतुर्गुरुकम् । न केवलं प्रायश्चित्तं चतुर्गुरुकं, किन्त्वाज्ञादयश्च दोषाः । चशब्दो भिन्नक्रमः। स च तथैव योजितः । कस्मादेवम् ? अत आह-'भिन्नकहादि' इत्यादि । चतुर्थव्रतातिचारमालोचयन्त्याः संयत्या भिन्नकथादोषो भवति । चतुर्थव्रतातिचारकथनतस्तस्याः कदाचिदालोचनाधारस्य वा भावभेदो भवतीत्यर्थः । आदिशव्दात् धृष्टीभूता सा याच्यामपि कुर्यादिति परिग्रहः । एवं सति शीलविराधना । 'दठ्ठण व भावसंबंधो' दृष्टिविकारेण मुखविकारेण वा स वा सा वा भावं दृष्ट्वा 'मामिच्छति' इति अभिप्रायं ज्ञात्वा सम्बन्धो घटना स्यात् ॥ २३४१॥ एतदेव व्याख्यानयति
गाथा
२३४२-२३४७ मूलगुणेसु चउत्थे, विगडिजंते विराहणा हुज्जा ।
आर्यरक्षित
पर्यन्त आगमनित्थक्क दिट्ठिमुहरागतो य भावं वियाणंति ॥२३४२॥ मूलगुणेषु मध्ये चतुर्थे मूलगुणातिचारे विकट्यमाने आलोच्यमाने विराधना शीलस्य |
४१०२२ (A) भिन्नकथादिना प्रागुक्तस्वरूपेण भवति । तथा नित्थक्का धृष्टा सती याच्यां कुर्यात्। तथा
यवहारः
For Private and Personal Use Only