________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पंचम
उद्देशकः १०२१ (B)
वा पुष्करिणी यथा यो निजकस्य भ्रातुः सेवकस्याऽऽगमने परीक्षा तथात्रापि च परीक्षय सम्भोग-विसम्भोगौ ॥२३३९ ॥
उक्तः सप्रपञ्चः सम्भोगः । सम्प्रति येनाधिकारस्तमभिधित्सुरिदमाहएएसिं कयरेणं, संभोगेणं तु होंति संभोगी । समणाणं समणीतो? भण्णइ अणुपालणाए उ ॥२३४०॥
एतेषाम् अनन्तरोदितानां सम्भोगानां मध्ये कतरेण सम्भोगेन सम्भोगिन्यः श्रमणानां श्रमण्यो भवन्ति?, सूरिराह-भण्यते, अनुपालनया अनुपालनारूपेण सम्भोगेन ॥ २३४० ॥ | तदेवमुक्तः सम्भोगः, साम्प्रतमालोचनाविधिमाहआलोयणा सपक्खे, परपक्खे चउगुरुं च आणादी । भिन्नकहादि विराहण, दद्दूण व भावसंबंधो ॥२३४१॥
आलोचना सपक्षे दातव्या। तद्यथा- निर्ग्रन्थो निर्ग्रन्थस्य पुरत आलोचयति, निर्ग्रन्थी निर्ग्रन्थ्याः पुरतः, यदि पुनर्विपक्षे आलोचयति, यथा निर्ग्रन्थो निर्ग्रन्थ्याः पुरतः, निर्ग्रन्थी
गाथा २३३८-२३४१ विसम्भोगे दृष्टान्ताः
१०२१ (B)
For Private and Personal Use Only