________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम्
पंचम
उद्देशकः १०२१ (A)
जातास्ततो निमन्त्रणवेलायां पृच्छा प्रवृत्ता- कतमान्निमन्त्रयामि? पूर्वं त्वेवंरूपा पृच्छा नाऽऽसीत्। उपनयः प्राग्वत् (५) ॥
तथा एकस्मिन् ग्रामे महान् गोवर्गः । स कदाचिदशिवेन गृहीतः। ततस्तस्मात् ग्रामादानीतासु गोषु लोकस्य पृच्छा अभवत् कुतो ग्रामादानीता? कस्य वा गोवर्गस्येयम्? इति, पूर्वं तु नाऽऽसीत् (६) ॥ एवमत्रापि विनष्टे सम्भोगे साम्भोगिकः परीक्ष्य सम्भोज्यते। तथा चाह___साहम्मय वइधम्मय, निघरिसभाणे तहेव कूवे य ।
गावी पुक्खरिणी या, नीयल्लग सेवआगमणे ॥२३३९ ॥
सधर्मता समानधर्मशीलता, तां सम्यक् परीक्षया ज्ञात्वा सम्भुञ्जते, विधर्मता विगत- 13 धर्मशीलता तां ज्ञात्वा परिवर्जयन्ति । यथा सुवर्णं निघर्षे निकषोपले परीक्ष्य यदि युक्तं ज्ञायते ततः प्रतिगृह्यते, अन्यथा तु परित्यज्यते । एवमज्ञातशीलोऽपि भाजनेन परीक्षणीयः। यदि भाजनस्य तलमघृष्टम् उपकरणं वा विधिना सीवितं तत 'आलएण विहारेणं' [ ] इत्यादिवचनतः साधर्मिको ज्ञेयः, शेषस्तु वैधर्मिकः । यथा वा कूपे यदि वा गोषु यथा
गाथा
५ चुक्ता
विसम्भोगे दृष्टान्ताः
४१०२१ (A)
For Private and Personal Use Only