SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् पंचम उद्देशकः १०२० (B)| द्वौ भ्रातरौ भोजिकलसेवकौ राजकलेऽभ्यर्हितसेवकौ सर्वत्राऽवारितप्रसरौ, तयोः कनिष्ठोऽन्तःपुरे कृतानाचारो जातः । ततो राज्ञा प्रवेशो निवारितः । ज्येष्ठोऽपि च राज्ञोऽकथिते प्रवेशं न लभते। प्रतिहारेण तु कथिते राज्ञा पृच्छयते, क आगतो ज्येष्ठः कनिष्ठो वा? तत्र ज्येष्ठ इति कथिते स प्रवेश्यते। इयं तु पृच्छा पूर्वं नाऽऽसीत् । कालक्रमेण त्वेकस्मिन् कनिष्ठे दुःशीले जाते प्रावर्तत । उपनयभावना प्राग्वत् (२)॥ _ तिलादिदृष्टान्तानाह-एमेवेत्यादि, एवमेव अनेनैव प्रकारेण शेषेष्वपि तिलादिषु दृष्टान्तेषु भवति विभाषा व्याख्यानं कर्तव्यम् । तच्चेदम्- पूर्वं सर्वेष्वपि आपणेषु अपूतिकास्तिला अदुष्टजन्मानस्तन्दुला विक्रयाय प्रसार्यन्ते स्म । ततः कालदोषत एकेन वणिजा निकृतिबहुलेन पूतिकास्तिलाः प्रसारिताः। अपरेण तु दुष्टजन्मानस्तन्दुलाः। ततो लोकस्य पृच्छा प्रावर्तत- कीदृशास्तवापणे तन्दुला: ? कीदृशा वा तिलाः? इति पर्वं नाऽऽसीत । ||२३३८-२३०१ विसम्भोगे उपनयः प्राग्वत् (३-४)॥ दृष्टान्ताः तथा एकस्मिन्नगरे एकस्यां दिशि बहूनि देवकुलानि तेषु सर्वेषु सरजस्का वसन्ति | १०२० (B) सुशीलाः, तान् सर्वानपि भूयान् जनो निर्विशेषं पूजयति, पश्चात्केषुचिदेवकुलेषु दुःशीला गाथा For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy